॥१. मध्यमाधिकारः ॥
॥१. मध्यमाधिकारः ॥
अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः॥१.१॥
अल्पावशिष्टे तु कृते मयो नाम महासुरः।
रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम्॥१.२॥
वेदाङ्गमग्र्यमखिलं ज्योतिषां गतिकारणम्।
आराधयन्विवस्वन्तं तपस्तेपे सुदुश्चरम्॥१.३॥
तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिने।
ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम्॥१.४॥
विदितस्ते मया भावस्तोषितस्तपसा ह्यहम्।
दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत्॥१.५॥
न मे तेजस्सहः कश्चिदाख्यातुं नास्ति मे क्षणः।
मदंशः पुरुषोऽयं ते निश्शेषं कथयिष्यति॥१.६॥
इत्युक्त्वान्तर्दधे देवः समादिश्यांशमात्मनः।
स पुमान्मयमाहेदं प्रणतं प्राञ्जलिस्थितम्॥१.७॥
शृणुष्वैकमनाः पूर्वं यदुक्तं ज्ञानमुत्तमम्।
युगे युगे महर्षीणां स्वयमेव विवस्वता॥१.८॥
शास्त्रमाद्यं तदेवेदं यत्पूर्वं प्राह भास्करः।
युगानां परिवर्तेन कालभेदोऽत्र केवलः॥१.९॥
लोकानामन्तकृत्कालः कालोऽन्यः कलनात्मकः।
स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते॥१.१०॥
प्राणादिः कथितो मूर्तस्त्रुट्याद्योऽमूर्तसंज्ञकः।
षड्भिः प्राणैर्विनाडी स्यात्तत्षष्ट्या नाडिका स्मृता॥१.११॥
नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्।
तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा॥१.१२॥
ऐन्दवस्तिथिभिस्तद्वत्सङ्क्रान्त्या सौर उच्यते।
मासैर्द्वादशभिर्वर्षं दिव्यं तदह उच्यते॥१.१३॥
सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्।
तत्षष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च॥१.१४॥
तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम्।
सूर्याब्दसङ्ख्यया द्वित्रिसागरैरयुताहतैः॥१.१५॥
सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्।
कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया॥१.१६॥
युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः।
क्रमात्कृतयुगादीनां षष्ठांशः सन्ध्ययोः स्वकः॥१.१७॥
युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते।
कृताब्दसङ्ख्यास्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः॥१.१८॥
ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश।
कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः॥१.१९॥
इत्थं युगसहस्रेण भूतसंहारकारकः।
कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती॥१.२०॥
परमायुः शतं तस्य तयाहोरात्रसङ्ख्यया।
आयुषोऽर्धमितं तस्य शेषकल्पोऽयमादिमः॥१.२१॥
कल्पादस्माच्च मनवः षड्व्यतीताः ससन्धयः।
वैवस्वतस्य च मनोर्युगानां त्रिघनो गतः॥१.२२॥
अष्टाविंशाद्युगादस्माद्यातमेतत्कृतं युगम्।
अतः कालं प्रसङ्ख्याय सङ्ख्यामेकत्र पिण्डयेत्॥१.२३॥
ग्रहर्क्षदेवदैत्यादि सृजतोऽस्य चराचरम्।
कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो गताः॥१.२४॥
पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः।
जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः॥१.२५॥
प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः।
परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जते॥१.२६॥
शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः।
तेषां तु परिवर्तेन पौष्णान्ते भगणः स्मृतः॥१.२७॥
विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते।
तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते॥१.२८॥
युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः।
कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम्॥१.२९॥
इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः।
दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु॥१.३०॥
बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः।
बृहस्पतेः खदस्राक्षिवेदषड्वह्नयस्तथा॥१.३१॥
सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः।
शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः॥१.३२॥
चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे।
वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः॥१.३३॥
भानामष्टाक्षिवस्वद्रित्रिद्विद्व्यष्टशरेन्दवः।
भोदया भगणैः स्वैः स्वैरूनाः स्वस्वोदया युगे॥१.३४॥
भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम्।
रविमासोनितास्ते तु शेषाः स्युरधिमासकाः॥१.३५॥
सावनाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः।
उदयादुदयं भानोर्भूमिसावनवासरः॥१.३६॥
वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे।
चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः॥१.३७॥
षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः।
तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः॥१.३८॥
खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः।
भवन्ति भोदया भानुभगणैरूनिताः क्वहाः॥१.३९॥
अधिमासोनरात्र्यर्क्षचान्द्रसावनवासराः।
एते सहस्रगुणिताः कल्पे स्युर्भगणादयः॥१.४०॥
प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः।
कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः॥१.४१॥
खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवः।
गोऽग्नयः शनिमन्दस्य पातानामथ वामतः॥१.४२॥
मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः।
कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च तथा भृगोः॥१.४३॥
शनिपातस्य भगणाः कल्पे यमरसर्तवः।(६६२)
भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः॥१.४४॥
षण्मनूनां तु सम्पीड्य कालं तत्सन्धिभिः सह।
कल्पादिसन्धिना सार्धं वैवस्वतमनोस्तथा॥१.४५॥
युगानां त्रिघनं यातं तथा कृतयुगं त्विदम्।
प्रोज्झ्य सृष्टेस्ततः कालं पूर्वोक्तं दिव्यसङ्ख्यया॥१.४६॥
सूर्याब्दसङ्ख्यया ज्ञेयाः कृतस्यान्ते गता अमी।
खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराः॥१.४७॥
अत ऊर्ध्वममी युक्ता गतकालाब्दसङ्ख्यया।
मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः॥१.४८॥
पृथक्स्थास्तेऽधिमासघ्नाः सूर्यमासविभाजिताः।
लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः॥१.४९॥
द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः।
लब्धोनरात्रिरहिता लङ्कायामार्धरात्रिकः॥१.५०॥
सावनो द्युगणः सूर्याद्दिनमासाब्दपास्ततः।
सप्तभिः क्षयितः शेषः सूर्याद्यो वासरेश्वरः॥१.५१॥
मासाब्ददिनसङ्ख्याप्तं द्वित्रिघ्नं रूपसंयुतम्।
सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षपौ॥१.५२॥
यथा स्वभगणाभ्यस्तो दिनराशिः कुवासरैः।
विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत्॥१.५३॥
एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः।
विलोमगतयः पातास्तद्वच्चक्राद्विशोधिताः॥१.५४॥
द्वादशघ्ना गुरोर्याता भगणा वर्तमानकैः।
राशिभिः सहिताः शुद्धाः षष्ट्या स्युर्विजयादयः॥१.५५॥
विस्तरेणैतदुदितं संक्षेपाद्व्यावहारिकम्।
मध्यमानयनं कार्यं ग्रहाणामिष्टतो युगात्॥१.५६॥
अस्मिन्कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः।
विना तु पातमन्दोच्चान्मेषादौ तुल्यतामिताः॥१.५७॥
मकरादौ शशाङ्कोच्चं तत्पातस्तु तुलादिगः।
निरंशत्वं गताश्चान्ये नोक्तास्ते मन्दचारिणः॥१.५८॥
योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु।
तद्वर्गतो दशगुणात्पदं भूपरिधिर्भवेत्॥१.५९॥
लम्बज्याघ्नस्त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः।
तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता॥१.६०॥
कलादि तत्फलं प्राच्यां ग्रहेभ्यः परिशोधयेत्।
रेखाप्रतीचीसंस्थाने प्रक्षिपेत्स्युः स्वदेशजाः॥१.६१॥
राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः।
रोहीतकमवन्ती च यथा सन्निहितं सरः॥१.६२॥
अतीत्योन्मीलनादिन्दोर्दृक्सिद्धिर्गणितागतात्।
यदा भवेत्तदा प्राच्यां स्वस्थानं मध्यतो भवेत्॥१.६३॥
अप्राप्य च भवेत्पश्चादेवं वापि निमीलनात्।
तयोरन्तरनाडीभिर्हन्याद्भूपरिधिं स्फुटम्॥१.६४॥
षष्ट्या विभज्य लब्धैस्तु योजनैः प्रागथापरैः।
स्वदेशः परिधौ ज्ञेयः कुर्याद्देशान्तरं हि तैः॥१.६५॥
वारप्रवृत्तिः प्राग्देशे क्षपार्धेऽभ्यधिके भवेत्।
तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत्॥१.६६॥
इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम्।
गते शोध्यं युतं गम्ये कृत्वा तात्कालिको भवेत्॥१.६७॥
भचक्रलिप्ताशीत्यंशं परमं दक्षिणोत्तरम्।
विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः॥१.६८॥
तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः।
बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम्॥१.६९॥
एवं त्रिघनरन्ध्रार्करसार्कार्का दशाहताः।
चन्द्रादीनां क्रमादुक्ता मध्यविक्षेपलिप्तिकाः॥१.७०॥