॥ १३. ज्यौतिषोपनिषदध्यायः ॥
अथ गुप्ते शुचौ देशे स्नातः शुचिरलङ्कृतः।
संपूज्य भास्करं भक्त्या ग्रहान् भान्य् अथ गुह्यकान्॥१३.१॥
पारंपर्योपदेशेन यथाज्ञानं गुरोर्मुखात्।
आचार्यः शिष्यबोधार्थं सर्वं प्रत्यक्षदर्शिवान्॥१३.२॥
भूभगोलस्य रचनां कुर्यादाश्चर्यकारिणीम्।
अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम्॥१३.३॥
दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम्।
आधारकक्षाद्वितयं कक्षा वैषुवती तथा॥१३.४॥
भगणांशाङ्गुलैः कार्या दलितास्तिस्र एव ताः।
स्वाहोरात्रार्धकर्णैश्च तत्प्रमाणानुमानतः॥१३.५॥
क्रान्तिविक्षेपभागैश्च दलितैर्दक्षिणोत्तरैः।
स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनामपक्रमात्॥१३.६॥ मेषादीनामपिक्रमात्
कक्षाः प्रकल्पयेत् ताश्च कर्क्यादीनां विपर्ययात्।
तद्वत् तिस्रस्तुलादीनां मृगादीनां विलोमतः॥१३.७॥
यांयगोलाश्रिताः कार्याः कक्षाधाराद् द्वयोरपि।
यांयोदग्गोलसंस्थानां भानामभिजितस्तथा॥१३.८॥
सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत्।
मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता॥१३.९॥
तदाधारयुतेरूर्ध्वमयने विषुवद्वयम्।
विषुवत्स्थानतो भागैः स्फुटैर्भगणसञ्चरात्॥१३.१०॥
क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिः प्रकल्पयेत्।
अयनादयनं चैव कक्षा तिर्यक् तथापरा॥१३.११॥
क्रान्तिसञ्ज्ञा तया सूर्यः सदा पर्येति भासयन्।
चन्द्राद्याश्च स्वकैः पातैरपमण्डलमाश्रितैः॥१३.१२॥
ततोऽपकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात्।
उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात्॥१३.१३॥
लङ्कोदयैर्यथासिद्धं खमध्योपरि मध्यमम्।
मध्यक्षितिजयोर्मध्ये या ज्या साऽन्त्याभिधीयते॥१३.१४॥
ज्ञेया चरदलज्या च विषुवत्क्षितिजान्तरम्।
कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम्॥१३.१५॥
वस्त्रच्छन्नं बहिश्चापि लोकालोकेन वेष्टितम्।
अमृतस्रावयोगेन कालभ्रमणसाधनम्॥१३.१६॥
तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत्।
गोप्यमेतत्प्रकाशोक्तं सर्वगंयं भवेदिह॥१३.१७॥
तस्माद् गुरूपदेशेन रचयेद् गोलमुत्तमम्।
युगे युगे समुच्छिन्ना रचनेयं विवस्वतः॥१३.१८॥
प्रसादात् कस्यचिद् भूयः प्रादुर्भवति कामतः।
कालसंसाधनार्थाय तथा यन्त्राणि साधयेत्॥१३.१९॥
एकाकी योजयेद् बीजं यन्त्रे विस्मयकारिणि।
शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा॥१३.२०॥
गुरूपदेशाद्विज्ञेयं कालज्ञानमतन्द्रितैः।
तोययन्त्रकपालाद्यैर्मयूरनरवानरैः॥१३.२१॥
ससूत्ररेणुगर्भैश्च संयक्कालं प्रसाधयेत्॥
पारदारांबुसूत्राणि शुल्वतैलजलानि च।
बीजानि पांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः॥
तांरपात्रमधश्छिद्रं न्यस्तं कुण्डेऽमलांभसि।
षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम्॥
नरयन्त्रं तथा साधु दिवा च विमले रवौ।
छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम्॥
ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वतः।
ग्रहलोकं अवाप्नोति पर्यायेणात्मवान्नरः॥