॥ ९. उदयास्ताधिकारः

अथोदयास्तमययोः परिज्ञानं प्रकीर्त्यते।

दिवाकरकराक्रान्तमूर्तिनामप्लतेजसाम्॥९.०१॥


सूर्यादभ्यधिकाः पश्चादस्तं जीवक्कुजार्कजाः।

ऊनाः प्रागुदयं यान्ति ज्ञशुक्रौ वक्रिणौ तथा॥९.०२॥


ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः।

व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः॥९.०३॥


सूर्यास्तकालिकौ पश्चात् प्राच्यामुदयकालिकौ।

दिवा चार्कग्रहौ कुर्याद् दृक्कर्माथ ग्रहस्य तु॥९.०४॥


ततो लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः।

प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः॥९.०५॥


एकादशामरेज्यस्य तिथिसङ्ख्याऽर्कजस्य च।

अस्तांशा भूमिपुत्रस्य दश सप्ताधिकाऽस्ततः॥९.०६॥


पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्महत्तया।

प्रागस्त उदयः पश्चादल्पत्वाद्दशभिर्भृगोः॥९.०७॥


एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः।

वक्री शीघ्रगतिश्चार्कात्करोत्यस्तमयोदयौ॥९.०८॥


एभ्योऽधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः।

भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः॥९.०९॥


तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः।

दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः॥९.१०॥


तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते।

स्यातां कालगती ताभ्यां दिनादि गतगम्ययोः॥९.११॥


स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः।

अभिजिद् ब्रह्महृदयं त्रयोदशभिरंशकैः॥९.१२॥


हस्तश्रवणफाल्गुन्यः श्रविष्ठा रोहिणी मघा।

चतुर्दशांशकैर्दृश्या विशाखाऽश्विनिदैवतम्॥९.१३॥


कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षमेव च।

दृश्यन्ते पञ्चदशभिराषाढाद्वितयतं तथा॥९.१४॥


भरणीतिष्यसौम्यानि सौक्ष्म्यात् त्रिःसप्तकांशकाः।

शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु॥९.१५॥


अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः।

विभज्य लब्धाः क्षेत्रांशास्तैर्दृश्याऽदृश्यताऽथ वा॥९.१६॥


प्रागेषामुदयः पश्चादस्तो दृक्कर्म पूर्ववत्।

गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि॥९.१७॥


अभिजिद् ब्रह्महृदयं स्वातीवैष्णववासवाः।

अहिर्बुध्न्यमुदक्स्थत्वान्न लुप्यन्तेऽर्करश्मिभिः॥९.१८॥