॥ ७. ग्रहयुत्यधिकारः ॥

ताराग्रहाणां अन्योन्यं स्यातां युद्धसमागमौ।

समागमः शशाङ्केन सूर्येणास्तमनं सह॥७.०१॥


शीघ्रे मन्दाधिकेऽतीतः संयोगो भवितान्यथा।

द्वयोः प्राग्यायिनोर्एवं वक्रिणोस्तु विपर्ययात्॥७.०२॥


प्राग्यायिन्य् अधिकेऽतीतो वक्रिण्य् एष्यः समागमः।

ग्रहान्तरकलाः स्वस्वभुक्तिलिप्ताः समाहताः॥७.०३॥


भुक्त्यन्तरेण विभजेद् अनुलोमविलोमयोः।

द्वयोर्वक्रिण्य् अथैकस्मिन् भुक्तियोगेन भाजयेत्॥७.०४॥


लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति।

विपर्ययाद् वक्रगत्योर्एकस्मिंस्तु धनव्ययौ॥७.०५॥


समालिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ।

विवरं तद्वद् उद्धृत्य दिनादिफलं इष्यते॥७.०६॥


कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाः।

नतोन्नतं साधयित्वा स्वकाल् लग्नवशात् तयोः॥७.०७॥


विषुवच्छाययांयस्तद्विक्षेपाद् द्वादशोद्धृतात्।

फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम्॥७.०८॥


लब्धं प्राच्यां ऋणं सौंयाद् विक्षेपात् पश्चिमे धनम्।

दक्षिणे प्राक्कपाले स्वं पश्चिमे तु तथा क्षमः॥७.०९॥


सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः।

विकलाः स्वं ऋणं क्रान्तिक्षेपयोर्भिन्नतुल्ययोः॥७.१०॥


नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने।

शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाव् इदं स्मृतम्॥७.११॥


तात्कालिकौ पुनः कार्यौ विक्षेपौ च तयोस्ततः।

दिक्तुल्ये त्व् अन्तरं भेदे योगः शिष्टं ग्रहान्तरम्॥७.१२॥


कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताः।

विष्कंभाश् चन्द्रकक्षायां भृगोः षष्टिर्उदाहृता॥७.१३॥


त्रिचतुः कर्णयुत्याप्तास्ते द्विघ्नास्त्रिज्यया हताः।

स्फुटाः स्वकर्णास्तिथ्याप्ता भवेयुर्मानलिप्तिकाः॥७.१४॥


छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत्।

ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे संप्रदिश्यते॥७.१५॥


पञ्चहस्तोच्छ्रितौ शङ्कू यथादिग् भ्रमसंस्थितौ।

ग्रहान्त्रेण विक्षिप्ताव् अधो हस्तनिखातगौ॥७.१६॥


छायाकर्णौ ततो दद्याच् छायाग्राच् छङ्कुमूर्धगौ।

छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत्॥७.१७॥


स्वशङ्कुमूर्धगौ व्योंनि ग्रहौ दृक्तुल्यतां इतौ।

उल्लेखं तारकास्पर्शाद् भेदे भेदः प्रकीर्त्यते॥७.१८॥


युद्धं अंशुविमर्दाख्यं अंशुयोगे परस्परम्।

अंशाद् ऊनेऽपसव्याख्यं युद्धं एकोऽत्र चेद् अणुह्॥७.१९॥


समागमोऽंशाद् अधिके भवतश् चेद् वलान्वितौ।

अपसव्ये जितो युद्धे पिहितोऽणुर्अदीप्तितान्॥७.२०॥


रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः।

उदक्स्थो दीप्तिमान् स्थूलो जयी यांयेऽपि यो बली॥७.२१॥


आसन्नाव् अप्य् उभौ दीप्तौ भवतश् चेत् समागमः।

स्वल्पौ द्वाव् अपि विध्वस्तौ भवेतां कूटविग्रहौ॥७.२२॥


उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी।

शशाङ्केनैवं एतेषां कुर्यात् संयोगसाधनम्॥७.२३॥


भावाभावाय लोकानां कल्पनेयं प्रदर्शिता।

स्वमार्गगाः प्रयान्त्य् एते दूरं अन्योन्यं आश्रिताः॥७.२४॥