॥ ११. पाताधिकारः

एकायनगतौ स्यातां सूर्यचन्द्रमसौ यदा।

तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः॥११.१॥


विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिकाः।

समास्तदा व्यतीपातो भगणार्धे तयोर्युतौ॥११.२॥


तुल्यांशुजालसंपर्कात् तयोस्तु प्रवहाहतः।

तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते॥११.३॥


विनाशयति पातोऽस्मिन् लोकानामसकृद्यतः।

व्यतीपातः प्रसिद्धोयं सञ्ज्ञाभेदेन वैधृतः॥११.४॥


स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः।

सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते॥११.५॥


भास्करेन्द्वोर्भचक्रान्तश्चक्रार्धावधिसंस्थयोः।

दृक्तुल्यसाधितांशादियुक्तयोः स्वावपक्रमौ॥११.६॥


अथौजपदगस्येन्दोः क्रान्तिर्विक्षेपसंस्कृता।

यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा॥११.७॥


ऊना चेत् स्यात्तदा भावी वामं युग्मपदस्य च।

पदान्यत्वं विधोः क्रान्तिविक्षेपाच्चेद्विशुध्यति॥११.८॥


क्रान्त्योर्ज्ये त्रिज्ययाऽभ्यस्ते परक्रान्तिज्ययोद्धृते।

तच्चापान्तरमर्धं वा योज्यं भाविनि शीतगौ॥११.९॥


शोध्यं चन्द्राद् गते पाते तत्सूर्यगतिताडितम्।

चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत्फलम्॥११.१०॥


तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात्।

कर्मैतदसकृत् तावद् यावद् क्रान्ती समे तयोः॥११.११॥


क्रान्त्योः समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौ।

हीनेऽर्धरात्रिकाद् यातो भावी तात्कालिकेऽधिके॥११.१२॥


स्थिरीकृतार्धरात्रेन्द्वोर्द्वयोर्विवरलिप्तिकाः।

षष्टिघ्न्यश्चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः॥११.१३॥


रवीन्दुमानयोगार्धं षष्ट्या सङ्गुण्य भाजयेत्।

तयोर्भुक्त्यन्तरेणाऽप्तं स्थित्यर्धं नाडिकादि तत्॥११.१४॥


पातकालः स्फुटो मध्यः सोऽपि स्थित्यर्धवर्जितः।

तस्य संभवकालः स्यात् तत्संयुक्तोऽन्त्यसंज्ञितः॥११.१५॥


आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः।

प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः॥११.१६॥


एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम्।

संभवस्तावदेवास्य सर्वकर्मविनाशकृत्॥११.१७॥


स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः।

प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा॥११.१८॥


रवीन्द्वोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा।

द्विर्भवेद्धि तदा पातः स्यादभावो विपर्ययात्॥११.१९॥


शशाङ्कार्कयुतेर्लिप्ता भभोगेन विभाजिताः।

लब्धं सप्तदशान्तोऽन्यो व्यतीपातस्तृतीयकः॥११.२०॥


सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादा भसन्धयः।

तदग्रभेष्वाद्यपादा गण्डान्तं नाम कीर्त्यते॥११.२१॥


व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा।

एतद् भसन्धित्रितयं सर्वकर्मसु वर्जयेत्॥११.२२॥


इत्येतत् परमं पुण्यं ज्योतिषां चरितं हितम्।

रहस्यमहदाख्यातं किमन्यच्छ्रोतुमिच्छसि॥११.२३॥