॥ १०. चन्द्रशृंगोन्नत्यधिकारः

रवीन्द्वोः षड्भयुतयोः प्राग्वल्लग्नान्तरासवः।

एकराशौ रवीन्द्वोश्च कार्या विवरलिप्तिकाः॥१०.२॥


तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजिते।

तत्फलान्वितयोर्भूयः कर्तव्या विवरासवः॥१०.३॥


एवं यावत् स्थिरीभूता रवीन्द्वोरन्तरासवः।

तैः प्राणैरस्तमेतीन्दुः शुक्लेऽर्कास्तमयात् परम्॥१०.४॥


भगणार्धं रवौ दत्त्वा कार्यास्तद्विवरासवः।

तैः प्राणैः कृष्णपक्षे तु शीतांशुरुदयं व्रजेत्॥१०.५॥


अर्केन्द्वोः क्रान्तिविश्लेषो दिक्सांये युतिरन्यथा।

तज्ज्येन्दुरर्काद्यत्रासौ विज्ञेया दक्षिणोत्तरा॥१०.६॥


मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा।

तदाऽर्कघ्नाक्षजीवायां शोध्या योज्या च दक्षिणा॥१०.७॥


शेषं लंबज्यया भक्तं लब्धो बाहुः स्वदिङ्मुखः।

कोटिः शङ्कुस्तयोर्वर्गयुतेर्मूलं श्रुतिर्भवेत्॥१०.८॥


सूर्योनशीतगोर्लिप्ताः शुक्लं नवशतोद्धृताः।

चन्द्रबिंबाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम्॥१०.९॥


दत्त्वार्कसंज्ञितं बिन्दुं ततो बाहुं स्वदिङ्मुखम्।

ततः पश्चान्मुखीं कोटिं कर्णं कोट्यग्रमध्यगम्॥१०.१०॥


कोटिकर्णयुताद् बिन्दोर्बिंबं तात्कालिकं लिखेत्।

कर्णसूत्रेण दिक्सिद्धिं प्रथमं परिकल्पयेत्॥१०.११॥


शुक्लं कर्णेन तद्बिंबयोगादन्तर्मुखं नयेत्।

शुक्लाग्रयांयोत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत्॥१०.१२॥


तन्मद्य सूत्रसंयोगाद्बिन्दुत्रिस्पृग्लिखेद्धनुः॥॥

प्राग्बिंबं यादृगेव स्यात् तादृक् तत्र दिने शशी॥१०.१३॥


कोट्या दिक्साधनात् तिर्यक्सूत्रान्ते शृङ्गमुन्नतम्।

दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य साऽकृतिः॥१०.१४॥


कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथासितम्।

दद्याद् वामं भुजं तत्र पश्चिमे मण्डलं विधोः॥१०.१५॥