॥ ८. भग्रहयुत्यधिकारः ॥
प्रोच्यन्ते लिप्तिका भानां स्वभोगोऽअथ दशाहतः।
भवन्त्य् अतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाः॥८.०१॥
अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः।
अष्टार्था अब्धयोऽष्टागा अङ्गागा मनवस्तथा॥८.०२॥
कृतेषवो युगरसाः शून्यवाणा वियद्रसाः।
खवेदाः सागरनगा गजागाः सागरर्तवः॥८.०३॥
मनवोऽथ रसा वेदा वैश्वं आप्यार्धभोगगम्।
आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिः।८.०४॥
त्रिचतुः पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु।
स्वभोगतो वियन् नागाः षट्कृतिर्यमलाश्विनः॥८.०५॥
रन्ध्राद्रयः क्रमाद् एषां विक्षेपाः स्वाद् अपक्रमात्।
दिङ्मासविषयाः सौंये यांये पञ्च दिशो नव॥८.०६॥
सौंये रसाः खं यांयेऽगाः सौंये खार्कास्त्रयोदश।
दक्षिणे रुद्रयमलाः सप्तत्रिंशद् अथोत्तरे॥८.७॥
मनवोऽथ रसा वेदा वैश्वं आप्यार्धभोगगं।
उत्तरस्यां तथा षष्टिस्त्रिंशत् षट्त्रिंशद् एव हि॥८.०८॥
दक्षिणे त्व् अर्धभागस्तु चतुर्विंशतिर्उत्तरे।
भागाः षड्विंशतिः खं च दास्रादीनां यथाक्रमम्॥८.०९॥
अशीतिभागैर्यांयायां अगस्त्यो मिथुनान्तगः।
विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः॥८.१०॥
विक्षेपो दक्षिणे भागैः खार्णवैः स्वाद् अपक्रमात्।
हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ॥८.११॥
अष्टाभिस्त्रिंशता चैव विक्षिप्ताव् उत्तरेण तौ।
गोलं लब्ध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम्॥८.१२॥
वृषे सप्तदशे भागे यस्य यांयोऽंशकद्वयात्।
विक्षेपोऽभ्यधिको भिन्द्याद् रोहिण्याः शकतं तु सः॥८.१३॥
ग्रहवद् द्युनिशे भानां कुर्याद् दृक्कर्म पूर्ववत्।
ग्रहमेलकवच् छेषं ग्रहभुक्त्या दिनानि च॥८.१४॥
एष्यो हीने गृहे योगो ध्रुवकाद् अधिके ततः।
विपर्ययाद् वक्रगते ग्रहे ज्ञेयः समागमः॥८.१५॥
फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोर्द्वयोः।
विशाखाश्विनिसौंयानां योगतारोत्तरा स्मृता॥८.१६॥
पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता।
हस्तस्य योगतारा सा श्रविष्ठायाश् च पश्चिमा॥८.१७॥
ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा।
भरण्याग्नेयपित्र्याणां रेवत्याश् चैव दक्षिणा॥८.१८॥
रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि।
यथा प्रत्यवशेषाणां स्थूला स्याद् योगतारका॥८.१९॥
पूर्वस्यां ब्रह्महृदयाद् अंशकैः पञ्चभिः स्थितः।
प्रजापतिर्वृषान्तेऽसौ सौंयेऽष्टत्रिंशदंशकैः॥८.२०॥
अपांवत्सस्तु चित्राया उत्तरेऽंशैस्तु पञ्चभिः।
बृहत् किञ्चिद् अतो भागैर्आपः षड्भिस्तथोत्तरे॥८.२१॥