॥ ४. चन्द्रग्रहणाधिकारः ॥
सार्धानि षट्सहस्राणि योजनानि विवस्वतः।
विष्कंभो मण्डलस्येन्दोः सहाशीत्या चतुश्शतम्॥४.०१॥
स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ।
रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः॥४.०२॥
शशाङ्ककक्षागुणितो भाजितो वाऽर्ककक्षया।
विष्कंभश् चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिका॥४.०३॥
स्फुटेन्दुभुक्तिर्भूव्यासगुणिता मध्ययोद्धृता।
लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम्॥४.०४॥
मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम्।
विशोध्य लब्धं सूच्यां तु तमो लिप्तास्तु पूर्ववत्॥४.०५॥
भानोर्भार्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि।
शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके॥४.०६॥
तुल्यौ राश्यादिभिः स्यातां अमावास्यान्तकालिकौ।
सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिकौ समौ॥४.०७॥
गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ।
समलिप्तौ भवेतां तौ पातस्तात्कालिकोऽन्यथा॥४.०८॥
छादको भास्करस्येन्दुर्अधःस्थो घनवद् भवेत्।
भूच्छायां प्राङ्मुखश् चन्द्रो विशत्य् अस्य भवेद् असौ॥४.०८॥
तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः।
योगार्धात् प्रोज्झ्य यच्छेषं तावच् छन्नं तद् उच्यते॥४.०९॥
यद् ग्राह्यं अधिके तस्मिन् सकलं न्यूनं अन्यथा।
योगार्धाद् अधिके न स्याद् विक्षेपे ग्राससंभवः॥४.१०॥
ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक्।
विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यां उभे पदे॥४.११॥
षष्ठ्या संगुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिते।
स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः॥४.१२॥
स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्ठिभाजिताः।
लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः॥४.१३॥
तद्विक्षेपैः स्थितिदलं विमर्दार्धे तथाऽसकृत्।
संसाध्यं अन्यथा पाते तल्लिप्तादिफलं स्वकम्॥४.१४॥
स्फुटतिथ्यवसाने तु मध्यग्रहणं आदिशेत्।
स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस्तु संयुते॥४.१५॥
तद्वद् एव विमर्दार्धनाडिकाहीनसंयुते।
निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे॥४.१६॥
इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः।
भुक्त्यन्तरं समाहन्यात् षष्ट्याप्ताः कोटिलिप्तिकाः॥४.१७॥
भानोर्ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसंगुणाः।
स्फुटस्थित्यर्धसंभक्ताः स्फुटाः कोटिकलाः स्मृता॥४.१८॥
क्षेपो भुजस्तयोर्वर्गयुतेर्मूलं श्रवस्तु तत्।
मानयोगार्धतः प्रोज्झ्य ग्रासस्तात्कालिको भवेत्॥४.१९॥
मध्यग्रहणतश् चोर्ध्वं इष्टनाडीर्विशोधयेत्।
स्थित्यर्धान् मौक्षिकाच् छेषं प्राग्वच् च्छेषं तु मौक्षिके॥४.२०॥
ग्राह्यग्राहकयोगार्धाच् छोध्याः स्वच्छन्नलिप्तिकाः।
ताद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिं पदम्॥४.२१॥
कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः।
मध्येन लिप्तास्तन्नाड्यः स्थितिवद् ग्रासनाडिकाः॥४.२२॥
नतज्याऽक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम्।
वलनांशा सौंययांयाः पूर्वापरकपालयोः॥४.२३॥
राशित्रययुताद् ग्राह्यात् क्रान्त्यंशैर्दिक्समैर्युताः।
भेदेऽन्तराज् ज्या वलना सप्तत्यङ्गुलभाजिता॥४.२४॥
सोन्नतं दिनमध्यार्धं दिनार्धाप्तं फलेन तु।
छिन्द्याद्विक्षेपमानानि तान्येषां अङ्गुलानि तु॥४.२५॥