॥ १२. भूगोलाध्यायः ॥
अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिः।
भक्त्या परमयाऽभ्यर्च्य पप्रच्छेदं मयासुरः॥१२.०१॥
भगवन् किम्प्रमाणा भूः किमाकारा किमाश्रया।
किं विभागा कथं चात्र सप्त पातालभूमयः॥१२.०२॥
अहोरात्रव्यवस्थां च विदधाति कथं रविः।
कथं पर्येति वसुधां भुवनानि विभावयन्॥१२.०३॥
देवासुराणामन्योन्यमहोरात्रं विपर्ययात्।
किमर्थं तत्कथं वा स्याद्भानोर्भगणपूरणात्॥१२.०४॥
पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम्।
तदेव किल सर्वत्र न भवेत् केन हेतुना॥१२.०५॥
दिनाब्दमासहोराणामधिपा न समाः कुतः।
कथं पर्येति भगणः सग्रहोऽयं किमाश्रयः॥१२.०६॥
भूमेरुपर्युपर्यूर्ध्वाः किमुत्सेधाः किमन्तराः।
ग्रहर्क्षकक्षाः किंमात्राः स्थिताः केन क्रमेण ताः॥१२.०७॥
ग्रीष्मे तीव्रकरो भानुर्न हेमन्ते तथाविधः।
कियती तत्करप्राप्तिर्मानानि कति किञ्च तैः॥१२.०८॥
एवं मे संशयं छिन्धि भगवन् भूतभावन।
अन्यो न त्वामृते छेत्ता विद्यते सर्वदर्शिवान्॥१२.०९॥
इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यमस्य हि।
रहस्यं परमध्यायं ततः प्राह पुनः स तम्॥१२.१०॥
शृणुष्वैकमना भूत्वा गुह्यमध्यात्मसंज्ञितम्।
प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम॥१२.११॥
वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः।
अव्यक्तो निर्गुणः शान्तः पञ्चविंशात् परोऽव्ययः॥१२.१२॥
प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः।
सङ्कर्षणोऽपः सृष्ट्वादौ तासु वीर्यमवासृजत्॥१२.१३॥
तदण्डमभवद्धैमं सर्वत्र तमसावृतम्।
तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः॥१२.२४॥
हिरण्यगर्भो भगवानेष छन्दसि पठ्यते।
आदित्यो ह्यादिभूतत्वात् प्रसूत्या सूर्य उच्यते॥१२.१५॥
परं ज्योतिस्तमः पारे सूर्योऽयं सवितेति च।
पर्येति भुवनान्येष भावयन्भूतभावनः॥१२.१६॥
प्रकाशात्मा तमोहन्ता महानित्येष विश्रुतः।
ऋचोऽस्य मण्डलं सामान्युस्त्रामूर्तिर्यजूंषि च॥१२.१७॥
त्रयीमहोऽयं भगवान् कालात्मा कालकृद्विभुः।
सर्वात्मा सर्वगः सूक्ष्मः सर्वमस्मिन्प्रतिष्ठितम्॥१२.१८॥
रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम्।
छन्दांस्यश्वाः सप्तयुक्ताः पर्यटत्येष सर्वदा॥१२.१९॥
त्रिपादममृतं गुह्यं पादोऽयं प्रकटोऽभवत्।
सोऽहङ्कारं जगत्सृष्ट्यै ब्रह्माणमसृजत् प्रभुः॥१२.२०॥
तस्मै वेदान् वरान् दत्त्वा सर्वलोकपितामहम्।
प्रतिष्ठाप्याण्डमध्येऽथ स्वयं पर्येति भावयन्॥१२.२१॥
अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्तिभृत्।
मनसश्चन्द्रमा जज्ञे सूर्योऽक्ष्णोस्तेजसां निधिः॥१२.२२॥
मनसः खं ततो वायुरग्निरापो धरा क्रमात्।
गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे॥१२.२३॥
अग्नीषोमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः।
तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे॥१२.२४॥
पुनर्द्वादशधाऽत्मानं व्यभजद्राशिसञ्ज्ञकम्।
नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी॥१२.२५॥
ततश्चराचरं विश्वं निर्ममे देवपूर्वकम्।
ऊर्ध्वमध्याधरेभ्योऽथ स्रोतोभ्यः प्रकृतीः सृजन्॥१२.२६॥
गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात्।
विभागं कल्पयामास यथास्वं वेददर्शनात्॥१२.२७॥
ग्रहनक्षत्रताराणां भूमेर्विश्वस्य वा विभुः।
देवासुरमनुष्याणां सिद्धानां च यथाक्रमम्॥१२.२८॥
ब्रह्माण्डमेतत् सुषिरं तत्रेदं भूर्भुवादिकम्।
कटाहद्वितयस्येव संपुटं गोलकाकृति॥१२.२९॥
ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाऽभिधीयते।
तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा॥१२.३०॥
मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः।
परिभ्रमन्त्यधोऽधस्थाः सिद्धा विद्याधरा घनाः॥१२.३१॥
मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति।
बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम्॥१२.३२॥
तदन्तरपुटाः सप्त नागासुरसमाश्रयाः।
दिव्यौषधिरसोपेता रम्याः पातालभूमयः॥१२.३३॥
अनेकरत्ननिचयो जाम्बूनदमयो गिरिः।
भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः॥१२.३४॥
उपरिष्टात् स्थितास्तस्य सेन्द्रा देवा महर्षयः।
अधस्तादसुरास्तद्वद् द्विषन्तोऽन्योन्यमाश्रिताः॥१२.३५॥
ततः समन्तात् परिधिः क्रमेणायं महार्णवः।
मेखलेव स्थितो धात्र्या देवासुरविभागकृत्॥१२.३६॥
समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधेः।
द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः॥१२.३७॥
भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता।
भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा॥१२.३८॥
याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी।
पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता॥१२.३९॥
उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता।
तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः॥१२.४०॥
भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः।
ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः॥१२.४१॥
तासामुपरिगो याति विषुवस्थो दिवाकरः।
न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते॥१२.४२॥
मेरोरुभयतो मध्ये ध्रुवतारे नभः स्थिते।
निरक्षदेशसंस्थानामुभये क्षितिजाश्रये॥१२.४३॥
अतो नाक्षोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः।
नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा॥१२.४४॥
मेषादौ देवभागस्थे देवानां याति दर्शनम्।
असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः॥१२.४५॥
अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः।
देवभागेऽसुराणां तु हेमन्ते मन्दताऽन्यथा॥१२.४६॥
देवासुरा विषुवति क्षितिजस्थं दिवाकरम्।
पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षपे॥१२.४७॥
मेषादावुदितः सूर्यस्त्रीन्राशीनुदगुत्तरम्।
सञ्चरन्प्रागहर्मध्यं पूरयेन्मेरुवासिनाम्॥१२.४८॥
कर्कादीन्सञ्चरस्तद्वदह्नः पश्चार्धमेव सः। [ कर्कादीन् ]
तुलादींश्च मृगादींश्च तद्वदेव सुरद्विषाम्॥१२.४९॥
अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात्।
अहोरात्रप्रमाणं च भानोर्भगणपूरणात्॥१२.५०॥
दिनक्षपार्धमेतेषामयनान्ते विपर्ययात्।
उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः॥१२.५१॥
अन्येऽपि समसूत्रस्था मन्यन्तेऽधः परस्परम्।
भद्राश्वकेतुमालस्था लङ्कासिद्धपुरस्थिताः॥१२.५२॥
सर्वत्रैव महीगोले स्वस्थानमुपरि स्थितम्।
मन्यन्ते खे यतो गोलस्तस्य क्वोर्ध्वं क्व वाप्यधः॥१२.५३॥
अल्पकायतया लोकाः स्वस्थानात् सर्वतो मुखम्।
पश्यन्ति वृत्तामप्येनां चक्राकारां वसुन्धराम्॥१२.५४॥
सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम्।
उपरिष्टाद् भगोलोऽयं व्यक्षे पश्चान्मुखः सदा॥१२.५५॥
अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वदी तथा।
हासवृद्धी सदा वामं सुरासुरविभागयोः॥१२.५६॥
मेषादौ तु दिवा वृद्धिरुदगुत्तरतोऽधिका।
देवांशे च क्षपाहानिर्विपरीतं तथाऽसुरे॥१२.५७॥
तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे।
देशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरोदितम्॥१२.५८॥
भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्।
अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरि स्थितः॥१२.५९॥
परमापक्रमादेवं योजनानि विशोधयेत्।
भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः॥१२.६०॥
अयनान्ते विलोमेन देवासुरविभागयोः।
नाडीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत् तथा॥१२.६१॥
तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः।
परतो विपरीतोऽयं भगोलः परिवर्तते॥१२.६२॥
ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः।
धनुर्मृगस्थः सविता देवभागे न दृश्यते॥१२.६३॥
तथैवासुरभागे तु मिथुने कर्कटे स्थितः।
नष्टच्छाया महीवृत्तपादे दर्शनमादिशेत्॥१२.६४॥
एकज्यापक्रमानीतैर्योजनैः परिवर्जिते।
भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः॥१२.६५॥
धनुर्मृगालिकुम्भेषु संस्थितोऽर्को न दृश्यते।
देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये॥१२.६६॥
मेरौ मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम्।
सकृदेवोदितं तद्वदसुराश्च तुलादिगम्॥१२.६७॥
भूमण्डलात् पञ्चदशे भागे दैवे तथासुरे।
उपरिष्टाद् व्रजत्यर्कः सौम्ययाम्यायनान्तगः॥१२.६८॥
तदन्तरालयोश्च्छाया याम्योदक् सम्भवत्यपि।
मेरोरभिमुखं याति परतः स्वविभागयोः॥१२.६९॥
भद्राश्वोपरिगः कुर्याद् भारते तूदयं रविः।
रात्र्यर्धं केतुमाले तु कुरावस्तमयं तदा॥१२.७०॥
भारतादिषु वर्षेषु तद्वदेव परिभ्रमन्।
मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम्॥१२.७१॥
ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः।
निरक्षाभिमुखं यातुर्विपरीते नतोन्नते॥१२.७२॥
भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः।
पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्॥१२.७३॥
सकृदुद्गतमब्दार्धं पश्यन्त्यर्कं सुरासुराः।
पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि॥१२.७४॥
उपरिष्ठस्य महती कक्षाऽल्पाधःस्थितस्य च।
महत्या कक्षया भागा महान्तोऽल्पास्तथाल्पया॥१२.७५॥
कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः।
ग्रहः कालेन महता मण्डले महति भ्रमन्॥१२.७६॥
स्वल्पयाऽतो बहून् भुङ्क्ते भगणान् शीतदीधितिः।
महत्या कक्षया गच्छन् ततः स्वल्पं शनैश्चरः॥१२.७७॥
मन्दादधः क्रमेण स्युश्चतुर्था दिवसाधिपाः।
वर्षाधिपतयस्तद्वत् तृतीयाः परिकीर्तिताः॥१२.७८॥
ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः।
होरेशाः सूर्यतनयादधोऽधः क्रमशस्तथा॥१२.७९॥
भवेद् भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम्।
सर्वोपरिष्टाद्भ्रमति योजनैस्तैर्भमण्डलम्॥१२.८०॥
कल्पोक्तचन्द्रभगणाः गुणिताः शशिकक्षया।
आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः॥१२.८१॥
सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत्।
कुवासरैर्विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता॥१२.८२॥
भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसङ्गुणा।
स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिकाः॥१२.८३॥
कक्षा भूकर्णगुणिता महीमण्डलभाजिता।
तत्कर्णो भूमिकर्णोना ग्रहोच्च्यं स्वं दलीकृतः॥१२.८४॥
खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः।
ज्ञशीघ्रस्याङ्कखद्वित्रिकृतशून्येन्दवस्तथा॥१२.८५॥
शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः।
ततोऽर्कबुधशुक्राणां खखार्थैकसुरार्णवाः॥१२.८६॥
कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः।
चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः॥१२.८७॥
कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः।
स्वर्भानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः॥१२.८८॥
पञ्चबाणाक्षिनागर्तुरसाद्र्यर्काः शनेस्ततः।
भानां खखखशून्याङ्कवसुरन्ध्रशराश्विनः॥१२.८९॥
खव्योमखत्रयखसागरषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः।
ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करप्रसारः॥१२.९०॥