॥ २. स्पष्टाधिकारः ॥
अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः।
शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः॥२.०१॥
तद्वातरश्मिभिर्बद्धास्तैस्सव्येतरपाणिभिः।
प्राक् पश्चाद् अपकृष्यन्ते यथासन्नं स्वदिङ्मुखम्॥२.०२॥
प्रवहाख्यो मरुत् तांस्तु स्वोच्चाभिमुखं ईरयेत्।
पूर्वापराकृष्टास्ते गतिं यान्ति पृथग्विधाः॥२.०३॥
ग्रहात् प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम्।
उच्चसंज्ञोऽपरार्धस्थस्तद्वत् पश्चान्मुखं ग्रहम्॥२.०४॥
स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद् ग्रहाः।
तत् तेषु धनं इत्य् उक्तं ऋणं पश्चान्मुखेषु च॥२.०५॥
दक्षिणोत्तरतोऽप्य् एवं पातो राहुः स्वरंहसा।
विक्षिपत्य् एष विक्षेपं चन्द्रादीनां अपक्रमात्॥२.०६॥
उत्तराभिमुखं पातो विक्षिपत्य् अपरार्धगः।
ग्रहं प्राग्भगणार्धस्थो यांयायां अपकर्षति॥२.०७॥
बुधभार्गवयोः शीघ्रात् तद्वत् पातो यदा स्थितः।
तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत्॥२.०८॥
महत्वान् मण्डलस्यार्कः स्वल्पं एवापकृष्यते।
मण्डलाल्पतया चन्द्रस्ततो बह्व् अपकृष्यते।२.०९॥
भौमादयोऽल्पमूर्तित्वाच् छीघ्रमन्दोच्चसञ्ज्ञकैः।
दैवतैर्अपकृष्यन्ते सुदूरं अतिवेगिताः॥२.१०॥
अतो धनर्णं सुमहत् तेषां गतिवशाद् भवेत्।
आकृष्यमाणास्तैर्एवं व्योंनि यान्त्य् अनिलाहताः॥२.११॥
वक्रातिवक्रा विकला मन्दा मन्दतरा समा।
तथा शीघ्रतरा शीघ्रा ग्रहाणां अष्टधा गतिः॥२.१२॥
तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा।
ऋज्वीति पञ्चधा ज्ञेया या वक्रा सातिवक्रगा॥२.१३॥
तत्तद्गतिवशान् नित्यं यथा दृक्तुल्यतां ग्रहाः।
प्रयान्ति तत् प्रवक्ष्यामि स्फुटीकरणं आदरात्॥२.१४॥
राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धं उच्यते।
तत् तद्विभक्तलब्धोनमिश्रितं तद् द्वितीयकम्॥२.१५॥
आद्येनैवं क्रमात् पिण्डान् भक्त्वा लब्धोनसंयुताः।
खण्डकाः स्युश् चतुर्विंशज्यार्धपिण्डाः क्रमाद् अमी॥२.१६॥
तत्त्वाश्विनोऽङ्काब्धिकृता रूपभूमिधरर्तवः।
खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः॥२.१७॥
शून्यलोचनपञ्चैकाश् छिद्ररूपमुनीन्दवः।
वियच्चन्द्रातिधृतयो गुणरन्ध्रांबराश्विनः॥२.१८॥
मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः।
पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः॥२.१९॥
रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास्तथा।
कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः॥२.२०॥
षट्पञ्चलोचनगुणाश् चन्द्रनेत्राग्निवह्नयः।
यमाद्रिवह्निज्वलना रन्ध्रशून्यार्नवाग्नयः॥२.२१॥
रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः।
प्रोज्झ्योत्क्रमेण व्यासार्धाद् उत्क्रमज्यार्धपिण्डिकाः॥२.२२॥
मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः।
द्व्यष्टैका रूपषड्दस्राः सागरार्थहुताशनाः।२.२३॥
खर्तुवेदा नवाद्र्यर्था दिङ्नागास्त्र्यर्थकुञ्जराः।
नगांबरवियच्चन्द्रा रूपभूधरशङ्कराः॥२.२४॥
शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः।
नवरूपमहीध्रैका गजैकाङ्कनिशाकराः॥२.२५॥
गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः।
वस्वर्णवार्थयमलास्तुरङ्गर्तुनगाश्विनः॥२.२६॥
नवाष्टनवनेत्राणि पावकैकयमाग्नयः।
गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः॥२.२७॥
परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः।
तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिर्उच्यते॥२.२८॥
ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद् विशोध्य च।
शेषं केन्द्रपदं तस्माद् भुजज्या कोटिर्एव च॥२.२९॥
गताद् भुजज्या विषमे गंयात् कोटिः पदे भवेत्।
युग्मे तु गंयाद् बाहुज्या कोटिज्या तु गताद् भवेत्॥२.३०॥
लिप्तास्तत्त्वयमैर्भक्ता लब्धं ज्यापिण्डिकं गताम्।
गतगंयान्तराभ्यस्तं विभजेत् तत्त्वलोचनैः॥२.३१॥
तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके।
स्यात् क्रमज्याविधिर्अयं उत्क्रमज्यास्व् अपि स्मृतः॥२.३२॥
ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम्।
संख्यातत्त्वाश्विसंवर्गे संयोज्य धनुर्उच्यते॥२.३३॥
रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाः।
युग्मान्ते विषमान्ते तु नखलिप्तोनितास्तयोः॥२.३४॥
युग्मान्तेऽर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः।
ओजे द्व्यगा वसुयमा रदा रुद्रा गजाब्दयः॥२.३५॥
कुजादीनां अतः शीघ्रा युग्मान्तेऽर्थाग्निदस्रकाः।
गुणाग्निचन्द्राः खनगा द्विरसाक्षीणि गो+अग्नयः॥२.३६॥
ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः।
खर्तुदस्रा वियद्वेदाः शीघ्रकर्मणि कीर्तिताः॥२.३७॥
ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता।
युग्मे वृत्ते धनर्णं स्याद् ओजाद् ऊनाधिके स्फुटम्॥२.३८॥
तद्गुणे भुजकोटिज्ये भगणांशविभाजिते।
तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम्॥२.३९॥
शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम्।
संशोध्यं तु त्रिजीवायां कर्क्यादौ कोटिजं फलम्॥२.४०॥
तद्बाहुफलवर्गैक्यान् मूलं कर्णश् चलाभिधः।
त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम्॥२.४१॥
लब्धस्य चापं लिप्तादिफलं शैघ्र्यं इदं स्मृतम्।
एतद् आद्ये कुजादीनां चतुर्थे चैव कर्मणि॥२.४२॥
मान्दं कर्मैकं अर्केन्दोर्भौमादीनां अथोच्यते।
शैघ्र्यं मान्दं पुनर्मान्दं शैघ्र्यं चत्वार्य् अनुक्रमात्॥२.४३॥
मध्ये शीघ्रफलस्यार्धं मान्दं अर्धफलं तथा।
मध्यग्रहे मन्दफलं सकलं शैघ्र्यं एव च॥२.४४॥
अजादिकेन्द्रे सर्वेषां शैघ्र्ये मान्दे च कर्मणि।
धनं ग्रहाणां लिप्तादि तुलादाव् र्णं एव च॥२.४५॥
अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता।
भचक्रकलिकाभिस्तु लिप्ताः कर्या ग्रहेऽर्कवत्॥२.४६॥
स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः।
दोर्ज्यान्तरादिकं कृत्वा भुक्ताव् ऋणधनं भवेत्॥२.४७॥
ग्रहभुक्तेः फलं कार्यं ग्रहवन् मन्दकर्मणि।
दोर्ज्यान्तरगुणा भुक्तिस्तत्त्वनेत्रोद्धृता पुनः॥२.४८॥
स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता कलाः।
कर्क्यादौ तु धनं तत्र मकरादाव् ऋणं स्मृतम्॥२.४९॥
मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्चभुक्तितः।
तच्छेशं विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोः॥२.५०॥
चलकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम्।
ऋणं ऊनेऽधिके प्रोज्झ्य शेषं वक्रगतिर्भवेत्॥२.५१॥
दूरस्थितः स्वशीघ्रोच्चाद् ग्रहः शिथिलरश्मिभिः।
सव्येतराकृष्ततनुर्भवेत् वक्रगतिस्तदा॥२.५२॥
कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टभिः।
शररुद्रैश् चतुर्थेषु केन्द्रांशैर्भूसुतादयः॥२.५३॥
भवन्ति वक्रिणस्तैस्तु स्वैः स्वैश् चक्राद् विशोधितैः।
अवशिष्टांशतुल्यैः स्वैः केन्द्रैर्उज्झन्ति वक्रताम्॥२.५४॥
महत्त्वाच् छीघ्रपरिधेः सप्तमे भृगुभूसुतौ।
अष्टमे जीवशशैजौ नवमे तु शनैश्चरः॥२.५५॥
कुजार्किगुरुपातानां ग्रहवच् छीघ्रजं फलम्।
वामं तृतीयकं मान्दं बुधभार्गवयोः फलम्॥२.५६॥
स्वपातोनाद् ग्रहाज् जीवा शीघ्राद् भृगुजसौंययोः।
विक्षेपघ्न्य् अन्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधोः॥२.५७॥
विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता।
दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता॥२.५८॥
ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः।
चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः॥२.५९॥
क्रान्तेः क्रमोत्क्रंमज्ये द्वे कृत्वा तत्रोत्क्रमज्यया।
हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्॥२.६०॥
क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता।
त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः॥२.६१॥
तत्कार्मुकं उदक्क्रान्तौ धनशनी पृथक्स्थिते।
स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते॥२.६२॥
यांयक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे।
विक्षेपयुक्तोनितया क्रान्त्या भानां अपि स्वके॥२.६३॥
भभोगोऽष्टशतीलिप्ताः खाश्विशैलास्तथा तिथेः।
ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम्॥२.६४॥
रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः।
गता गंयाश् च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः॥२.६५॥
अर्कोनचन्द्रलिप्ताभ्यस्तिथयो भोगभाजिताः।
गता गंयाश् च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः॥२.६६॥
ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम्।
किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश् चापरार्धतः॥२.६७॥
बवादीनि ततः सप्त चराख्यकरणानि च।
मासेऽष्टकृत्व एकैकं करणानां प्रवर्तते॥२.६८॥
तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत्।
एषा स्फुतगतिः प्रोक्ता सूर्यादीनां खचारिणाम्॥२.६९॥