॥ ५. सूर्यग्रहणाधिकारः ॥
मध्यलग्नसमे भानौ हरिजस्य न सम्भवः।
अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेरपि॥५.०१॥
देशकालविशेषेण यथाऽवनतिसम्भवः।
लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथोच्यते॥५.०२॥
लग्नं पर्वान्तनाडीनां कुर्यात् स्वैरुदयासुभिः।
तज्ज्याऽन्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा॥५.०३॥
तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम्।
तत्क्रान्त्यक्षांशसंयोगो दिक्साम्येऽन्तरमन्यथा॥५.०४॥
शेषं नतांशास्तन्मौर्वी मध्यज्या साऽभिधीयते।
मध्योदयज्ययाऽभ्यस्ता त्रिज्याप्ता वर्गितं फलम्॥५.०५॥
मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम्।
तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कुः स दृग्गतिः॥५.०६॥
नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपदृग्गती।
एकज्यार्धगतश्छेदो लब्धं दृग्गतिजीवया॥५.०७॥
मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता।
रवीन्द्वोर्लम्बनं ज्ञेयं प्राक्पश्चाद् घटिकादिकम्॥५.०८॥
मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत्।
धनमूनेऽसकृत् कर्म यावत्सर्वं स्थिरीभवेत्॥५.०९॥
दृक्क्षेपः शीततिग्मांश्वोर्मध्यभुक्त्यन्तराहतः।
तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिर्भवेत्॥५.१०॥
दृक्क्षेपात् सप्ततिहृताद् भवेद्वावनतिः फलम्।
अथवा त्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात्॥५.११॥
मध्यज्यादिग्वशात् सा च विज्ञेया दक्षिणोत्तरा।
सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषिताऽन्यथा॥५.१२॥
तया स्थितिविमर्दार्धग्रासाद्यं तु यथोदितम्।
प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत्॥५.१३॥
स्थित्यर्धोनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः।
ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम्॥५.१४॥
प्राक्कपालेऽधिकं मध्याद् भवेत् प्राग्रहणं यदि।
मौक्षिकं लम्बनं हीनं पश्चार्धे तु विपर्ययः॥५.१५॥
तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा।
हरिजान्तरकं शोध्यं यत्रैतत् स्याद् विपर्ययः॥५.१६॥
एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता।
स्वे स्वे स्थितिदले योज्या विमर्दार्धेऽपि चोक्तवत्॥५.१७॥