॥ १४. मानाध्यायः ॥

ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा। च गौरवं

सौरञ्च सावनं चान्द्रमार्क्षं मानानि वै नव॥१४.१॥


चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रार्क्षसावनैः।

बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः॥१४.२॥


सौरेण द्युनिशोर्मानं षडशीतिमुखानि च।

अयनं विषुवच्चैवं सङ्क्रान्तेः पुण्यकालता॥१४.३॥


तुलादि षडशीत्यह्नां षडशीतिमुखं क्रमात्।

तच्चतुष्टयमेव स्याद्द्विस्वभावेषु राशिषु॥१४.४॥


षड्विंशे धनुषो भागे द्वाविंशेऽनिमिषस्य च।

मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे॥१४.५॥


ततः शेषाणि कन्याया यान्यहानि तु षोडश।

क्रतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम्॥१४.६॥


भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्।

अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः॥१४.७॥


तदन्तरेषु सङ्क्रान्तिद्वितयं द्वितयं पुनः।

नैरन्तर्यात् तु सङ्क्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्॥१४.८॥


भानोर्मकरसङ्क्रान्तेः षण्मासा उत्तरायणम्।

कर्कादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम्॥१४.९॥


द्विराशिनाथा ऋतवस्ततोऽपि शिशिरादयः।

मेषादयो द्वादशैते मासास्तैरेव वत्सरः॥१४.१०॥


अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः।

तदर्धनाड्यः सङ्क्रान्तेरर्वाक् पुण्यं तथा परे॥१४.११॥


अर्काद् विनिस्सृतः प्राचीं यद्यात्यहरहः शशी।

तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः॥१४.१२॥


तिथिः करणमुद्वाहः क्षौरं सर्वक्रियास्तथा।

व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते॥१४.१३॥


त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम्।

निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः॥१४.१४॥


भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते।

नक्षत्रनांना मासास्तु ज्ञेयाः पर्वान्तयोगतः॥१४.१५॥


कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्।

अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्॥१४.१६॥


वैशाखादिषु कृष्णे च योगात् पञ्चदशे तिथौ।

कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात् तथा॥१४.१७॥


उदयादुदयं भानोः सावनं तत् प्रकीर्तितम्।

सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः॥१४.१८॥


सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा।

मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते॥१४.१९॥


सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्।

यत् प्रोक्तं तद् भवेद्दिव्यं भानोर्भगणपूरणात्॥१४.२०॥


मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्।

न तत्र द्युनिशोर्भेदो ब्राह्मं कल्पः प्रकीर्तितम्॥१४.२१॥


एतत् ते परमाख्यातं रहस्यं परमाद्भुतम्।

ब्रह्मैतत् परमं पुण्यं सर्वपापप्रणाशनम्॥१४.२२॥


दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानमुत्तमम्।

विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्वतम्॥१४.२३॥


इत्युक्त्वा मयमामन्त्र्य संयक् तेनाभिपूजितः।

दिवमाचक्रमेऽर्कांशः प्रविवेश स्वमण्डलम्॥१४.२४॥


मयोऽथ दिव्यं तज्ञानं ज्ञात्वा साक्षाद्विवस्वतः।

कृतकृत्यमिवात्मानं मेने निर्धूतकल्मषम्॥१४.२५॥


ज्ञात्वा तमृषयश्चाथ सूर्यलब्धवरं मयम्।

परिबब्रुरुपेत्याथो ज्ञानं पप्रच्छुरादरात्॥१४.२६॥


स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरितं महत्।

अत्यद्भुततमं लोके रहस्यं ब्रह्मसंमितम्॥१४.२७॥