॥ ३. त्रिप्रश्नाधिकारः ॥

शिलातलेऽंबुसंशुद्धे वज्रलेपेऽपि वा समे।

तत्र शङ्क्वङ्गुलैर्इष्टैः समं मण्डलं आलिखेत्॥३.०१॥


तन्मध्ये स्थापयेच् छङ्कुं कल्पनाद्वादशाङ्गुलम्।

तच्छायाग्रं स्पृशेद् यत्र वृत्ते पूर्वापरार्धयोः॥३.०२॥


तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ।

तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा॥३.०३॥


यांयोत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा।

दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वद् एव हि॥३.०४॥


चतुरस्रं बहिः कुर्यात् सूत्रैर्मध्याद् विनिर्गतैः।

भुजसूत्राङ्गुलैस्तत्र दत्तैर्इष्टप्रभा स्मृता॥३.०५॥


प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डले।

उनण्डले च विषुवन्मण्डले परिकीर्त्यते॥३.०६॥


रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा।

इष्टच्छायाविषुवतोर्मध्यं अग्राभिधीयते॥३.०७॥


शङ्कुच्छायाकृतियुतेर्मूलं कर्णोऽस्य वर्गतः।

प्रोज्झ्य शङ्कुकृतिं मूलं छाया शङ्कुर्विपर्ययात्॥३.०८॥


त्रिंशत्कृत्यो युगे भानां चक्रं प्राक् परिलंबते।

तद्गुणाद् भूदिनैर्भक्ताद् द्युगणाद् यद् अवाप्यते॥३.०९॥


तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः।

तत्संस्कृताद् ग्रहात् क्रान्तिच्छायाचरदलादिकम्॥३.१०॥


स्फुटं दृक्तुल्यतां गच्छेद् अयने विषुवद्वये।

प्राक् चक्रं चलितं हीने छायार्कात् करणागते॥३.११॥


अन्तरांशैर्अथावृत्य पश्चाच् छेषैस्तथाधिके।

एवं विषुवती छाया स्वदेशे या दिनार्धजा॥३.१२॥


दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा॥

शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते।


लंबाक्षज्ये तयोश् चापे लंबाक्षौ दक्षिणौ सदा।

मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका॥


स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे।

उत्तराश् चोत्तरे यांयास्ताः सूर्यक्रान्तिलिप्तिकाः॥


दिग्भेदे मिश्रिताः सांये विश्लिष्टाश् चाक्षलिप्तिकाः।

ताभ्योऽक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम्॥


लंबज्यार्कगुणाक्षज्या विषुवद्भाथ लंबया।

स्वाक्षार्कनतभागानां दिक्सांयेऽन्तरं अन्यथा॥


दिग्भेदेऽपक्रमः शेषस्तस्य ज्या त्रिज्यया हता।

परमापक्रमज्याप्ता चापं मेषादिगो रविः॥


कर्क्यादौ प्रोज्झ्य चक्रार्धात् तुलादौ भार्धसंयुतात्।

मृगादौ प्रोज्झ्य भगणान् मध्याह्नेऽर्कः स्फुटो भवेत्॥


तन्मान्दं असकृद् वामं फलं मध्यो दिवाकरः।

स्वाक्षार्कापक्रमयुतिर्दिक्सांयेऽन्तरं अन्यथा॥


शेषं नतांशाः सूर्यस्य तद्बाहुज्या च कोटिज्या।

शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम्॥


कोटिज्यया विभज्याप्ते छायाकर्णाव् अहर्दले।

क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया॥


अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका।

विषुवद्भायुतार्काग्रा यांये स्याद् उत्तरो भुजः॥


विषुवत्यां विशोध्योदग्गोले स्याद् बाहुर्उत्तरः।

विपर्ययाद् भुजो यांयो भवेत् प्राच्यपरान्तरे॥


माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता।

लंबाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे॥


क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ।

सौंयाक्षोना यदा कान्तिः स्यात् तदा द्युदलश्रवः॥


विषुवच्छाययाभ्यस्तः कर्णो मध्याग्रयोद्धृतः।

स्वक्रान्तिज्या त्रिजीवाघ्नी लंबज्याप्ताग्रमौर्विका॥


स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका।

त्रिज्यावर्गार्धतोऽग्रज्यावर्गोनाद् द्वादशाहतात्॥


पुनर्द्वादशनिघ्नाच् च लभ्यते यत् फलं बुधैः।

शङ्कुवर्गार्धसंयुक्तविषुवद्वर्गभाजितात्॥


तदेव करणी नाम तां पृथक् स्थापयेद् बुधः।

अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा॥


भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम्।

फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः॥


यांययोर्विदिशोः शङ्कुर्एवं यांयोत्तरे रवौ।

परिभ्रमति शङ्कोस्तु शङ्कुर्उत्तरयोस्तु सः॥


तत्त्रिज्यावर्गविश्लेषान् मूलं दृग्ज्याभिधीयते।

स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते॥


छायाकर्णौ तु कोणेषु यथास्वं देशकालयोः।

त्रिज्योदक्चरजायुक्ता यांयायां तद्विवर्जिता॥


अन्त्या नतोत्क्रमज्योना स्वहोरात्रार्धसङ्गुणा।

त्रिज्याभक्ता भवेच् छेदो लंबज्याघ्नोऽथ भाजितः॥


त्रिभज्यया भवेच् छङ्कुस्तद्वर्गं परिशोधयेत्।

त्रिज्यावर्गात् पदं दृग्ज्या छायाकर्णौ तु पूर्ववत्॥


अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता।

दृग्ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच् च यत् पदम्।


शङ्कुः स त्रिभजीवाघ्नः स्वलंबज्याविभाजितः।

छेदः स त्रिज्ययाभ्यस्तः स्वाहोरात्रार्धभाजितः॥


उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम्।

उत्क्रमज्याभिर्एवं स्युः प्राक्पश्चार्धनतासवः॥


इष्टाग्राघ्नी तु लंबज्या स्वकर्णाङ्गुलभाजिता।

क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता॥


तच्चापं भादिकं क्षेत्रं पदैस्तत्र भवो रविः।

इष्टेऽह्नि मध्ये प्राक्पश्चाद् धृते बाहुत्रयान्तरे॥


मत्स्यद्वयान्तरयुतेस्त्रिस्पृक्सूत्रेण भाभ्रमः।

त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः॥


क्रमाद् एकद्वित्रिभज्यास्तच्चापानि पृथक् पृथक्।

स्वाधोऽधः परिशोध्याथ मेषाल् लङ्कोदयासवः॥


खागाष्टयोऽर्थगोऽगैकाः शरत्र्यङ्कहिमांशवः।

स्वदेशचरखण्डोना भवन्तीष्टोदयासवः॥


व्यस्ता व्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रयः।

उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः॥


गतभोग्यासवः कार्या भास्कराद् इष्टकालिकात्।

स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्निभिः॥


अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत्।

तद्वत् तदेष्यलग्नासून् एवं यातात् तथोत्क्रमात्॥


शेषं चेत् त्रिंशताभ्यस्तं अशुद्धेन विभाजितम्।

भागैर्युक्तं च हीनं च तल्लग्नं क्षितिजे तदा॥


प्राक्पश्चान् नतनाडीभिस्तस्माल् लङ्कोदयासुभिः।

भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत्॥


भोग्यासून् ऊनकस्याथ भुक्तासून् अधिकस्य च।

संपीण्ड्यान्तरलग्नासून् एवं स्यात् कालसाधनम्॥


सूर्याद् ऊने निशाशेषे लग्नेऽर्काद् अधिके दिवा।

भचक्रार्धयुताद् भानोर्अधिक्केऽस्तमयात् परम्॥